संस्कृतव्याकरणदिशा ओडिआभाषायाः समीक्षणम् (An Analysis of Odiya (Oṛiā) Language from the Perspective of Sanskrit Grammar)

Autor: Behera, Shivananda
Jazyk: Sanskrit
Rok vydání: 2022
Předmět:
DOI: 10.5281/zenodo.7930592
Popis: संस्कृतभाषा एवं सर्वासां भारतीयभाषाणाम् जननी कथ्यते । ततः भारतीयभाषाणां व्याकरणेषु संस्कृतव्याकरणस्यापि प्रभावः संभवत्येव । तदस्मिन् क्रमे ओडिआभाषायाः व्याकरणमपि अधिकांशेन संस्कृतनिष्ठम् । अनेन शोधपत्रेण कारकविभक्तिप्रकरणसन्दर्भे संस्कृतव्याकरणमाधारीकृत्य ओडिआभाषायाः अध्ययनं समीक्षणं च करिष्यते । किं किं तत्त्वं संस्कृतव्याकरणेन साम्यं भजते ,उत किं वा वैषम्यं परिलक्ष्यते , तदस्मिन् शोधपत्रे सविस्तारं विश्लेषयिष्यते । तदिदं शोधपत्रं संस्कृतभाषाविद्भ्यः ओडिआभाषाविद्भ्यश्च उभयभाषाशिक्षणे उपयोगः भविष्यति ।  
Databáze: OpenAIRE