संस्कृतसाहित्यकारः गन्थकारश्च 'विद्वान् डा. एच्.वि.नागराजरावः'

Autor: Smt. KAVITHA B, Prof. V Girish Chandra
Jazyk: Sanskrit
Rok vydání: 2023
Předmět:
DOI: 10.5281/zenodo.7953559
Popis: आधुनिकसंस्कृतसाहित्याकाशेऽग्रेसरः, व्याकरणालङ्कारपण्डितः, राष्ट्रपतिप्रशस्ति-पुरस्कृतः, सुधर्मासंस्कृतपत्रिकायाः गौरवसम्पादकः विद्वान् डा॥ एच्. वि. नागराजराव् महोदयस्य संस्कृतज्ञानं, प्रतिभा, वाक्पटुता च सर्वेषां सुपरिचितैव । अनेन महाभागेन वैशिष्ट्यपूर्णाः शतकग्रन्थाः विरचिताः । तेषां ग्रन्थानां प्रकटनं मैसूरुनगरस्थिते विश्वमान्यसुधर्माप्रकाशनद्वारा कारितमस्ति । तेषु कवेः ’निन्दास्तुतिशतकम्’, ’दृष्टान्तशतकम्’, ’नागराजशतकम्’, ’सज्जनशतकम्’, ’दुर्जनशतकम्’, ’श्रीरामचन्द्रशतकम्’, ’कलिविमर्शनशतकम्’ इत्यादयः ग्रन्थाः सुपरिचितास्सन्ति । एतेषु ग्रन्थेषु अनन्यविचाराः, अपू्र्वसङ्गतयः, सन्मार्गः, सत्यसङ्गः, आदर्शजीवनमौल्यानि, धार्मिकनितिः, निःस्वार्थता, विश्वभ्रातृत्वम्, सहनाशीलता,सद्विद्या, भूसंरक्षणं, भूतदया, ज्ञानार्जनम्, तत्त्वचिन्तनम्, वैज्ञानिकप्रगतिः, आध्यात्मानुभूतिः, दैविकविचाराः, स्वाध्ययनम्, सांसारिकजीवनम्, सामाजिकस्वास्थ्यम्, प्रतिभासम्पन्नता, राजनीतिः, कापुरुषाः, प्राकृतिकसम्पदः, पशु-पक्षिणः, संस्कृतिः, भाषाविनोदः, ज्ञान-विज्ञानयोः महत्त्वम्, रोगोपशमनम्, इन्द्रियाणि, विनयशीलता, सौन्दर्यप्रज्ञा, मानसिकारोग्यम्, देशभक्तिः, वैदिकसाहित्यम्, विषयपाण्डित्यम्, क्षमादानादयः अनेकानेकविषयाः प्रस्तापिताः, विमर्शिताः, वर्णिताश्च । तथैव अनेन कविवर्येण पाण्डित्यपूर्णाः बहवः शास्त्रग्रन्थाः, भाषान्तरग्रन्थाश्च विरचिताः । नागराजकवेः ग्रन्थेषु न केवलं पाण्डित्यपूर्णं भाषाज्ञानं, साहित्यानुभूतिरेव विज्ञायते; अपि तु लौकिकालौकिकविषयानाञ्च परिचयः सम्यक् अवगम्यते । यथोदाहरणार्थम्, काक-पिकयोः विषये बहवः सुभाषितश्लोकाः संस्कृतकाव्येषु उपलभ्यन्ते । तथैव कविना काक-पिकयोः जीवनशैलीमधिकृत्य; तयोर्मध्ये शिशूणां पालन-पोषणभेदानुद्दिश्य एवं वर्णितम् ।
Databáze: OpenAIRE