विष्णुसहस्रानाम्नः पारायणेन प्रयोजनम्

Autor: H, Vijaya Bhat, Vishwasa, Shantala
Jazyk: Sanskrit
Rok vydání: 2023
Předmět:
DOI: 10.5281/zenodo.7956195
Popis: चतुर्वेदाः अपि त्रिधा विभक्ताः सन्ति । ते मन्त्राः, ब्राह्मणाः, उपनिषदः चेति । अत्र मन्त्राः वेदस्य यज्ञयागादीनां विधानं वर्णितवन्तः । तृतीयः विभाग एव उपनिषत् इति कथ्यते । एतां वेदान्त इत्यपि कथयन्ति। अत्र तत्त्वमेव प्रधानम् । यद्यपि शतशः उपनिषदः सन्ति, तत्र दश उपनिषदः प्रधानाः । एतदुपरि एव आचार्यवराः भाष्याणि लिखितवन्तः च । चराचरवस्तूनां पृष्ठतः स्थितानां अखण्डमूलचैतन्यस्य साक्षात्कारमेव उपनिषदां मुख्यध्येयः । यागयज्ञैः वयम् इह अपि प्रियवस्तूनि प्राप्तुं शक्नुमः । परन्तु तानि अशाश्वतानि । ते परमसत्यं दर्शयितुं न शक्नुवन्ति । अतः सदा सर्वदा अस्माकं सर्वसंशयान् निवार्य परमशान्तिं दीयमानं सत्यशोधनं एव उपनिषत्सु वयं पश्यामः । तादृशीं शक्तिम् ऋषयः प्राप्तवन्तः च । गृन्थदृष्ट्या प्रस्थानत्रयं अतिप्रमुखम् । व्यक्तिदृष्ट्या उपनिषत्सु आगतान् आध्यात्मिकानुभवानां साक्षात्कारं कृतवन्तः । ते मन्त्रदृष्टारः इति कथ्यन्ते । आध्यात्मिकसत्यं सनातनम् । अतः यथा उपनिषदृषयः तं अनुभूतवन्तः तथैव अद्यतनैः अपि तत् अनुभोक्तुं शक्यते । परन्तु वयं तादृशयोग्यतां प्राप्नुयेम ।  
Databáze: OpenAIRE