याज्ञीयमन्त्रमथनम्
Autor: | RADHESH |
---|---|
Jazyk: | Sanskrit |
Rok vydání: | 2022 |
DOI: | 10.5281/zenodo.7248886 |
Popis: | मनुष्यजीवनंपूर्णंभयोपेतम् । तद्भयमुक्तेःभगवद्शरणागतिरेवउपायः । अत्रापिमनुनाअयमेवउपायःस्वीकृतः । भयात्शरणागतःसःभगवन्तंस्तोतुम्आरब्धवान् । अध्यात्मपथिसोपानक्रमेणपुरोगतवान् । अन्ते ज्ञातश्चजीवनस्यअन्तिमःप्रधानश्चलक्ष्यःमोक्षःइति । तस्यप्राप्तेःअस्मान्सुपथिप्रवर्तयइतिप्रार्थयति । इममुपकारंप्रतिप्रत्यर्पयितुंअस्मासुकिमपिनास्ति । यतःईशावास्यमिदंसर्वम् । अतःसुकृताञ्जलिनानमस्कारवचांसिअर्प्यन्तेतावदेव । अत्र मोक्षार्थंप्रयत्नःआवश्यकः, करणीयश्च । परन्तुभगवदनुग्रहेणैवसःलभ्यतेनकेवलंप्रयत्नेन । 'वेदयन्ति इति वेदाः । कं वेदयन्ति? ब्रह्म । किं ब्रह्मज्ञानेन? तदेव परमं लक्ष्यं अस्मज्जावनस्य । किमर्थं ब्रह्मज्ञानं परमं लक्ष्यम्? ईशावास्यमिदं सर्वं तस्मात् । ईशः कः? स ब्रह्म एव । तादृशं ब्रह्म वेदयन्ति वेदाः । महान्तः ज्ञानराशयः इमे वेदाः अनन्ताः । ऋक्यजुस्सामाथर्वश्चेति चतुश्शाखाः वेदानाम् । तासु मूलवेदभागः मन्त्राः संहिता वेति व्यपदिश्यन्ते । उदाहरणार्थं ऋक्संहिता यजुस्संहिता इत्याद्याः । प्रतिसंहितानुगुणतया ब्राह्मणारण्यकाश्चेति भागाः सन्ति । संहितायां विद्यमानानां मन्त्राणामर्थः, तेषां विनियोगश्च ब्राह्मणेषु विवृतः । ब्रह्म नाम वेदः । तेषाम् अर्थविवरणार्थं विद्यमानो वेदभागः ब्राह्मणम् । अरण्ये मुनिभिः, वानप्रस्थैश्च एकान्ते मननं कृत्वा ज्ञेयः, विशेषतया अध्यात्मभूयिष्ठश्च वेदभागः आरण्यकम् । प्रथितेषु दशोपनिषत्सु नव उपनिषदः ब्राह्मणारण्यकभागेषु दृश्यन्ते । मूलमन्त्रभागे दृश्यते इयमेका उपनिषत् याज्ञीयमन्त्रोपनिषत् । तस्मादेव इयं सार्थकं नाम अस्याः । इयमेका मन्त्रोपनिषत्, अवशिष्टाः सर्वाः ब्राह्मणोपनिषदः अथ वा आरण्यकोपनिषदः । |
Databáze: | OpenAIRE |
Externí odkaz: |