Popis: |
विषयोऽस्ति “बौद्धिकात्मनिर्भरतायाः पथप्रदर्शकं शास्त्रं श्रीमद्भागवतम् ”।। यतो हि लोके सर्वत्र दरिदृश्यमानः श्रीमद्भागवतमहापुराणस्य प्रभावः न केवलं वर्तमानस्थितावेवापि तु यदारभ्यास्य प्रथमं सत्रं सञ्जातं तदारभ्य तथावदेव लोके देशे च वर्तते । एवञ्च न केवलोऽयं प्रभावः जनमनोरञ्जनाय, अपि तु जनमनसि ततोऽप्यधिको प्रभावः दृश्यते । अतः चिन्तितोऽयं विषयः ।। “अभ्यासात् प्राप्यते दृष्टिः कर्म सिद्धिप्रकाशिनी ।” इत्येवं प्रेरणावचः मनसि निधाय शोधपत्रलिखिप्सया मौलिकं चिन्तनं विधाय गुणात्मकः शोधप्रविधेः आश्रयणं कृतम् । येनायं शोधप्रविधिः मे मनसि सुदृष्टा सुस्पष्टा च भवेत् । अनेनात्र शोधपत्रे “समाजे लोके देशे च दृश्यमानः श्रीमद्भागवतमहापुराणस्य प्रभावः कीदृशः?” इति विषयः संगृहितः । ।। शोधपत्रे बिन्दवः ।। बौद्धिकात्मनिर्भरतायाः फलोद्देश्यम् ।। समाजे बौद्धिकात्मनिर्भरतायाः किमुद्देश्यम् ? किञ्च फलम् ? इतीमं विषयं चर्चिष्यते । यथा – “स्वातंत्र्यम्,स्वावलम्बनम् सद्ज्ञानप्राप्तिः” इति उद्देशप्राप्तये बौद्धिकात्मनिर्भरता मूले अस्ति । तया सिद्धाः सप्तसिद्धयः । ताश्च - ज्ञानात्मको विकासः भवति । समस्यायाः समाधानं लभते । परापेक्षा व्यपगता भवति । आत्मविश्वासस्य वृद्धिः भवति । अग्रणिर्भवति । दुर्लभं पदं लभते । पदप्राप्तेः संतोषः जायते । बौद्धिकात्मनिर्भरता प्राप्तये श्रीमद्भागवतपुराणस्य का भूमिका ? "नैकेषु शास्त्रेषु बौधिकात्मनिर्भरताप्राप्तये श्रीमद्भागवतमहापुराणस्य का भूमिका? " इति विषयस्य निरूपणार्थं चत्वारः इमे बिंदवः । भागवते कथाख्यानोपाख्यानादिषु दृग्गोचरीभूता बौधिकात्मनिर्भरता ।। भागवतपारायणेन प्रेरिता बौधिकात्मनिर्भरता ।। भागवताध्ययनेन दृढा बौधिकात्मनिर्भरता ।। भागवतपाकेन पक्वा बौधिकात्मनिर्भरतायाः माधुर्यम् ।। ।। उपसंहृति: ।। शोधपत्रेणानेनेदं सिद्धयति यत् - - - सत्योपासनायै ज्ञानोपसनायै श्रीमद्भागवतमहापुराणप्रेरितः संकल्पितश्चायं मार्ग: बौधिकात्मनिर्भरतायाः मार्ग एव । श्रीमद्भागवतमहापुराणे वर्तमाना ज्ञानोपासनाया: बौधिकात्मनिर्भरतायाः संकल्पना सुस्पष्टतया दृग्गोचरी भूता जायते । अद्यापि वर्तमान स्थितौ श्रीमद्भगवतपुराणमाध्यमेन तदुपासकमाध्यमेन च बौधिकात्मनिर्भरतायाः प्रचार: प्रसारश्च सर्वत्र जायते इति सिध्यति । बौधिकात्मनिर्भरतायाः श्रीमद्भगवतपुराणमाध्यमेनानेन संसिध्यति इति मे दृढो विश्वास:। |