Popis: |
सावित्री निजशुद्धभावेन शक्तिसामर्थ्याभ्यां यमपाशात् सत्यवन्तं विमोच्य प्रत्यानीतवती। तत्र मृत्युदेवेन सह सावित्र्याः संवादः अपि आसीत् । तेन मुग्धः यमः तस्यै वरान् दत्तवानिति व्यासविरचितमहाभारतकथा। तावान् एव कथायाः आशयः वा? तस्याः कथायाः अपेक्षितं सर्वं वयम् अवगतवन्तः वा ? इति प्रश्नं कुर्मः चेत् नैव इत्येव उत्तरं भवति। अस्यां पृथिव्यां वसद्भिः अस्माभिः मानवैः मरणं जित्वा अमृतत्वं साधनीयमेव। तदा एव ᳚ अमृतस्य पुत्राः ᳚ इति वेदशब्दस्य सार्थकता इति सुदृढम् उल्लिखितवान् श्रीमदरविन्दः स्वस्य ᳚ सावित्री ᳚ इति २४००० पादात्मके उद्ग्रन्थे। अत्र सावित्रीसत्यवतोः कथायाः पात्राणां विषये अपि अवलोकनं कथं भवेदिति स्पष्टमुक्तवान् श्रीमदरविन्दः। इदं न केवलं रूपकम् । अत्र पात्राणि न कल्पितानि । तानि जीवन्ति चैतन्यशक्तियुक्तानि । मानवजन्म न पराकाष्ठम्, न वा अन्तिमम् । एतस्य पश्चात् दिव्यमानवः इत्यपि काचित् जातिः अस्ति भविष्यतीति ज्ञातव्यम्। महोन्नतानाम् आध्यात्मिकशिखराणाम् अधिरोहणाय सावित्री ग्रन्थः पर्याप्तः । योगाभ्यासाय अपेक्षिताः सर्वे विषयाः अत्र वर्तन्ते इति तथ्यम्। भगवतः साक्षात्काराय अपेक्षितं सर्वम् अस्मिन् लभ्यते। इतरयोगेषु विद्यमाननिगूढविषयाः सर्वे अस्मिन् विवृताः। सत्यान्वेषणाय चैतन्यमभिज्ञातुं , अस्मिन् विश्वे विद्यमानानां समस्यानां परिष्करणाय अपेक्षितसाधनांशान् सर्वान् अस्मिन् श्रीमदरविन्दः उल्लेखितवान् । सैव श्रीमाता वदति स्म, सत्यम् इति शब्दस्य अर्थः केवलं वाङ्ग्मात्रं न। काचित् विशिष्टा अनुभूतिं ज्ञापयति सत्यम्। तदनुभवेनैव ज्ञातव्यम् इति। अस्मिन् ग्रन्थे द्वादशपर्वाणि , तेषु उपपर्वाणि अपि सन्ति मानवानां सामान्यसंशयाः अपि कुतः भवन्ति? कथं परिहर्तव्याः? कथं चिन्तनीयमित्यादि अनेकांशाः अपि नारदमुनेः सावित्र्याः मातुः संवादे अत्यन्तं रोचकम् अभिवर्णितम् । एवम् एतस्मात् व्यासात् पुराणकथां सम्यगवगम्य आधुनिकजीवनं जीवन् अपि आध्यात्मिकजीवनं शक्यम् इति निरूपयति अस्य श्रीमदरविन्दस्य सावित्री ग्रन्थः। अग्रे सविवरं तस्य कथनं भविष्यति। |