कालिदासीये विक्रमोर्वशीये रूपके अद्भुतरसस्य प्रयोगसमीक्षणम्

Autor: Dr. Somnath Chattopadhyay
Jazyk: angličtina
Rok vydání: 2020
Předmět:
Zdroj: Prachi Prajna, Vol VI, Iss 11, Pp 175-180 (2020)
ISSN: 2348-8417
Popis: ‘न हि रसादृते कश्चिदर्थः प्रवर्तते’। रसो हि काव्यस्य प्राणभूतः पदार्थः। आचार्यस्य भरतस्य मतानुसारेण आदिरसास्तावच्चत्वारः। तद्यथा शृङ्गार-वीर-रौद्र-बीभत्साश्च। वीररसाज्जायते अद्भुतरसः । दर्पणकारेणोक्तं – ‘रसो लोकोत्तरचमत्कारप्राणः’। अत्र चमत्कारस्य अर्थो विस्मयः। तेनोक्तम् - ‘चमत्कारश्चित्तविस्ताररूपो विस्मयपरपर्य्यायः’ । भरत-धनञ्जय-विश्वनाथाद्यालंकारिका रसस्यास्य गुरुत्वं स्वीकुर्वन्ति। ते मन्यन्ते ‘कार्यं निर्वहणेऽद्भुतम्’। अर्थात् नाटकस्यान्ते अद्भुतरसस्यावस्थितिः नाट्यकौशलदृष्ट्या आवश्यिकीति निर्देशः। परमुल्लेख्यं यदद्भुतरसमङ्गीकृत्य किमपि नाटकं न रचितम्। परं मयैका कालिदासस्य विक्रमोर्वशीयमिति रूपकात् पञ्चषा अद्भुतरसगर्भितान् दृष्टान्तान् उद्धृत्य प्रमाणीकर्तुम् इष्यते यत् कालिदासेन नाट्यतात्त्विकनिर्देशानुसारमेव अद्भुतरस्य प्रयोगः अकारि । प्रतिक्षेत्रं रसस्यास्य प्रयोगः अपृथग्यत्ननिर्वर्त्यः। यद्यपि इह काव्ये अद्भुतरसस्य अङ्गित्वं नास्ति तथापि कवेरस्य नैपुण्यादेव रसोऽयं लोकोत्तीर्णतां गत इत्यत्र नास्ति संशयः कश्चित्। अत्रैव कालिदासस्य श्रेष्ठत्वं रसप्रयोगविधौ।
Databáze: OpenAIRE